About Me

My photo
MUMBAI, MAHARASHRA, India
BANKER FOR 16 YEARS, SELF EMPLOYED FOR LAST 7 YEARS

28 February, 2021

श्री नाकोडा भैरव मंत्र - Shri Nakoda Bhairav Mantra

 ऊँ हीँ क्लाम् क्लीम् क्लुम् खाम खीम

खुम स्वाहा कुरुं कुरुं आपदा उद्वारणाय , स्वर्ण आकर्षणाय, श्री नाकोडा भैरवाय मम् दरिद्रम् निर्मूल करणाय, लोकेष्वराय, साँणदाय ऊँ महा भैरवाय नमो नमः

।।ॐ ह्री़ं श्रीं क्लुं श्री नाकोडा भैरवाय नमोस्तु ठ: ठ: ठ: स्वाहा।।



णमोकार मंत्र - Namokar Maha Mantra - with meaning - मंत्र का अर्थ

 णमो अरिहंताणं,

णमो सिद्धाणं,

णमो आयरियाणं,
णमो उवज्झायाणं,
णमो लोए सव्व साहूणं ।
एसोपंचणमोक्कारो, सव्वपावप्पणासणो ।
मंगला णं च सव्वेसिं, पडमम हवई मंगलं ।

Navkar Mantra - English text

Namah Arihantanam
Namah Siddhhanam
Namah Ayariyanam
Namah Uvjhayanam
Namah Loye Savva Saahunam
Aiso Panch Namahkkaro, Savva Paav Panasano I
Manglanancha Savvesim, Padhmam Havei Mangalam II

Meaning of Navkar Mantra (नवकार (णमोकार) मंत्र का अर्थ)

अरिहंतो को नमस्कार
सिद्धो को नमस्कार
आचार्यों को नमस्कार
उपाध्यायों को नमस्कार
सर्व साधुओं को नमस्कार

ये पाँच परमेष्ठी हैं । इन पवित्र आत्माओं को शुद्ध भावपूर्वक किया गया यह पंच नमस्कार सब पापों का नाश करने वाला है ।
संसार में सबसे उतम मंत्र है ।

Meaning of Navkar Mantra - English

Namah Arihantanam : I bow to the Arihantas (the perfect human beings)
Namah Siddhhanam : 
I bow to the Siddhhas (liberated body less souls)
Namah Ayariyanam :
 I bow to the Acharyas (masters and the heads of congregations)
Namah Uvjhayanam : 
I bow to the Upadhyayas (spiritual teachers)
Namah Loye Savva Saahunam: 
I bow to all the Sadhus (spiritual practitioners) in the world
Aiso Panch Namahkkaro : 
Worshiping all these five
Savva Paav Panasano : 
destroys all sins and obstacles
Manglanancha Savvesim : 
Among all that is auspicious
Padhmam Havei Mangalam : 
this "Navkar Mantra" is the foremost.

श्री घंटाकर्ण महावीर विध्न विनाशक मंत्र - Ghantakarna Mahaveer Mantra


 ॐ घंटाकर्णो महावीर सर्व व्याधि विनाशक । विस्फोटक भये प्राप्ते रक्ष रक्ष महाबल ॥

यत्र त्वं तिष्ठसे देव लिखितोऽक्षर शक्तिभिः । रोगास्तत्र प्रणश्यंति वात पित्त कफोद्भवाः ।।

तत्र राज भयं नास्ति यांति कर्णे जपात्क्षयम् ।
शाकिनी भूत वेताला राक्षस प्रभवंति न ।
नाकाले मरणं तस्य न च सर्पिणी डश्यते ।
अग्नि श्चौर भयं नास्ति ह्रीम् घंटाकर्णोनमोस्तुते ठः ठः ठः स्वाहा ॥

18 February, 2021

त्रैलोक्य मंगल सूर्य कवच - Bhramyaman Trailokya Mangal Surya Stotram in Sanskrit

 

।। त्रैलोक्य मंगल सूर्य कवच।। ।। पूर्व पीठीका: श्री सूर्योवाच।।

साम्ब साम्ब महाबाहो ! श्रृणु मे कवचं शुभम्। त्रैलोक्य मंगलं नाम, कवचं परमाद्भुतम्।।
यद् ज्ञात्वा मन्त्र वित् सम्यक्, फलं निश्चितम्। यद् धृत्वा च महा देवो, गणानामधिपोऽभवत्।।
पठनाद्धारणाद्विष्णुः, सर्वेषां पालकः सदा। एवमिन्द्रादयः सर्वे, सर्वैश्वर्यमवाप्रुवन्।।

विनियोग :- ॐ अस्य श्रीसूर्य कवस्य ब्रह्मा ऋषि, अनुष्टुप छन्दः, सर्वदेव नमस्कृत श्रीसूर्योदेवता, यशारोग्य मोक्षेषु पाठे विनियोगः।

ऋष्यादिन्यासः– शिरसि श्रीब्रह्मार्षये नमः। मुखे अनुष्टुपछन्दसे नमः। हृदि श्रीसूर्य देवतायै नमः। सर्वांगे यशारोग्य मोक्षेषु पाठे विनियोगाय नमः।

।। मूल कवच पाठ ।।

प्रणवो मे शिरः पातु, घणिर्मे पातु भालकम्।
सूर्योऽव्यान्नयनद्वन्द्वं, आदित्यः कर्ण युग्मकम्।।

अष्टाक्षरो महामन्त्रः, सर्वाभीष्ट फलप्रदः।
ह्रीं बीजं मे मुखं पातु, हृदयं मे भुवेश्वरो।।

चन्द्र बिम्बं विंशदाद्यः, पातु मे गुह्य देशकम्।
अक्षरोऽसौ महा मन्त्रः, सर्व तन्त्रेषु गोपितः।।

शिवो वह्नि समायुक्तो, वामाक्षी बिन्दु भूषितः।
एकाक्षरो महा मन्त्रः, श्री सूर्यस्य प्रकीर्तितः।।

गुह्याद्गुह्यतरो मन्त्रो, वांछा चिन्तामणिः स्मृतः।
शीर्षादि पाद पर्यन्तं, सदा पातु मनूत्तमः।।

।। फल श्रुति ।।

इति ते कथितं दिव्यं, त्रिषु लोकेषु दुर्लभम्।
श्रीप्रदं कान्तिदं नित्यं, धनारोग्य विवर्द्धनम्।।

कुष्ठादि रोग शमनं, महा व्याधि विनाशनम्।
त्रि सन्ध्यं यः पठेन्नित्यमरोगी बलवान् भवेत्।।

बहुना किमिहोक्तेन, यद्यन्मनसि वर्तते।
तत्सर्वं भवेत्तस्य, कवचस्य च धारणात्।।

भूत प्रेत पिशाचाश्च, यक्ष गन्धर्व राक्षसाः।
ब्रह्म राक्षस वेतालाःष्टु न दृष्टमपि ते क्षमाः।।

दूरादेव पलायन्ते, तस्य संकीर्तनादपि।
भूर्जपत्रे समालिख्य, रोचनाडगुरूकुंकुमैः।।

रविवारे च संक्रान्त्यां, सप्तम्यां च विशेषतः।
धारयेत् साधक श्रेष्ठः, श्रीसूर्यस्य प्रियो भवेत्।।

त्रिलौह मध्यगं कृत्वा, धारयेद्दक्षिणे करे।
शिखायामथवा कण्ठे, सोऽपि सूर्ये न संशयः।।

इति ते कथितं साम्ब, त्रैलोक्य मंगलाभिधम्।
कवचं दुर्लभं लोके, तव स्नेहात् प्रकाशितम्।।

अज्ञात्वा कवचं दिव्यं, यो जपेच्छूर्य मन्त्रकम्।
सिद्धिर्न जायते तस्य, कल्प कोटि शतैरपि।।

।। श्रीब्रह्म-यामले तन्त्रे श्रीत्रैलोक्य मंगलं नाम सूर्य कवचं।।

05 February, 2021

SUDARSHAN KAVACH - सुदर्शन -कवच

 ‘सुदर्शन -कवच ’—–

वैष्णवानां हि रक्षार्थं ,
श्रीवल्लभः – निरुपितः।
सुदर्शन महामन्त्रो,
वैष्णवानां हितावहः।।
मन्त्रा मध्ये निरुप्यन्ते ,
चक्राकारं च लिख्यते।
उत्तरा – गर्भ- रक्षां च ,
परीक्षित – हिते- रतः।।
ब्रह्मास्त्र – वारणं चैव ,
भक्तानां भय – भञ्जनः। वधं
च सुष्ट -दैत्यानां , खण्डं-
खण्डं च कारयेत्।।
वैष्णवानां हितार्थाय , चक्रं
धारयते हरिः। पीताम्बरो पर-
ब्रह्म, वन – माली गदाधरः।।
कोटि – कन्दर्प-लावण्यो ,
गोपिका -प्राण – वल्लभः। श्री –
वल्लभः कृपानाथो ,
गिरिधरः शत्रुमर्दनः।।
दावाग्नि -दर्प – हर्ता च ,
गोपीनां भय – नाशनः।
गोपालो गोप -कन्याभिः ,
समावृत्तोऽधि – तिष्ठते।।
वज्र – मण्डल- प्रकाशी च ,
कालिन्दी -विरहानलः।
स्वरुपानन्द-दानार् थं,
तापनोत्तर -भावनः।।
निकुञ्ज -विहार-भावाग्ने ,
देहि मे निज दर्शनम्। गो –
गोपिका -श्रुताकीर्णो , वेणु –
वादन -तत्परः।।
काम – रुपी कला -वांश्च ,
कामिन्यां कामदो विभुः।
मन्मथो मथुरा – नाथो ,
माधवो मकर -ध्वजः।।
श्रीधरः श्रीकरश्चैव , श्री-
निवासः सतां गतिः।
मुक्तिदो भुक्तिदोविष्णुः ,
भू – धरो भुत -भावनः।।
सर्व -दुःख – हरो वीरो , दुष्ट –
दानव-नाशकः।
श्रीनृसिंहो महाविष्णुः, श्री-
निवासः सतां गतिः।।
चिदानन्द – मयो नित्यः ,
पूर्ण – ब्रह्म सनातनः। कोटि –
भानु- प्रकाशी च , कोटि – लीला –
प्रकाशवान्।।
भक्त – प्रियः पद्म – नेत्रो ,
भक्तानां वाञ्छित -प्रदः।
हृदि कृष्णो मुखे कृष्णो ,
नेत्रे कृष्णश्च कर्णयोः।।
भक्ति – प्रियश्च श्रीकृष्णः ,
सर्वं कृष्ण – मयं जगत्। कालं
मृत्युं यमं दूतं, भूतं प्रेतं च
प्रपूयते।।
“ॐ नमो भगवते महा-
प्रतापाय महा – विभूति- पतये ,
वज्र – देह वज्र – काम वज्र –
तुण्ड वज्र – नख वज्र -मुख
वज्र – बाहु वज्र – नेत्र वज्र –
दन्त वज्र – कर-कमठ
भूमात्म-कराय , श्रीमकर-
पिंगलाक्ष उग्र -प्रलय
कालाग्नि- रौद्र- वीर-
भद्रावतार पूर्ण -ब्रह्म
परमात्मने , ऋषि -मुनि –
वन्द्य- शिवास्त्र-
ब्रह्मास्त्र- वैष्णवास्त्र-
नारायणास्त्र- काल- शक्ति-
दण्ड-कालपाश -अघोरास्त्र-
निवारणाय , पाशुपातास्त्र-
मृडास्त्र -सर्वशक्ति-
परास्त -कराय , पर – विद्या-
निवारण अग्नि -दीप्ताय ,
अथर्व -वेद- ऋग्वेद- साम –
वेद -यजुर्वेद- सिद्धि-कराय ,
निराहाराय , वायु – वेग मनोवेग
श्रीबाल-
कृष्णः प्रतिषठानन्द –
करः स्थल -जलाग्नि -गमे
मतोद् -भेदि , सर्व – शत्रु छेदि –
छेदि, मम बैरीन्
खादयोत्खादय , सञ्जीवन –
पर्वतोच्चाटय, डाकिनी – शाक
िनी – विध्वंस – कराय महा –
प्रतापाय निज – लीला-
प्रदर्शकाय निष्कलंकृत –
नन्द-कुमार – बटुक- ब्रह्मचारी
-निकुञ्जस्थ-भक्त – स्नेह-
कराय दुष्ट – जन-स्तम्भनाय
सर्व-पाप – ग्रह- कुमार्ग-
ग्रहान् छेदय छेदय, भिन्दि-
भिन्दि, खादय, कण्टकान्
ताडय ताडय मारय मारय,
शोषय शोषय, ज्वालय-
ज्वालय, संहारय – संहारय ,
(देवदत्तं ( नाशय नाशय ,
अति – शोषय शोषय , मम
सर्वत्र रक्ष रक्ष, महा –
पुरुषाय सर्व – दुःख-
विनाशनाय ग्रह- मण्डल- भूत-
मण्डल- प्रेत- मण्डल- पिशाच-
मण्डल उच्चाटन उच्चाटनाय
अन्तर-भवादिक – ज्वर-
माहेश्वर – ज्वर- वैष्णव-
ज्वर-ब्रह्म – ज्वर-विषम –
ज्वर -शीत – ज्वर- वात- ज्वर-
कफ- ज्वर-एकाहिक -द्वाहिक-
त्र्याहिक- चातुर्थिक- अर्द्ध-
मासिक मासिक षाण्मासिक
सम्वत्सरादि- कर भ्रमि –
भ्रमि, छेदय छेदय,
भिन्दि भिन्दि, महाबल-
पराक्रमाय महा -विपत्ति-
निवारणाय भक्र -जन- कल्पना
– कल्प- द्रुमाय- दुष्ट- जन-
मनोरथ-स्तम्भनाय
क्लीं कृष्णाय गोव िन्दाय
गोपी -जन – वल्लभाय नमः।।
पिशाचान् राक्षसान् चैव, हृदि
– रोगांश्च दारुणान् भूचरान्
खेचरान् सर्वे ,
डाकिनी शाकिनी तथा।।
नाटकं चेटकं चैव, छल -छिद्रं
न दृश्यते। अकाले मरणं
तस्य, शोक – दोषो न
लभ्यते।।
सर्व -विघ्न- क्षयं यान्ति ,
रक्ष मे गोपिका – प्रियः। भयं
दावाग्नि- च ौराणां, विग्रहे
राज – संकटे।।
।।फल -श्रुति।।
व्याल -व्याघ्र -महाशत्रु- वैरि
– बन्धो न लभ्यते। आधि –
व्याधि-हरश्चैव , ग्रह -पीडा –
विनाशने।।
संग्राम -जयदस्तस्माद् ,
ध्याये देवं सुदर्शनम्।
सप्तादश इमे श्लोका ,
यन्त्र – मध्ये च लिख्यते।।
वैष्णवानां इदं यन्त्रं,
अन्येभ्श्च न दीयते। वंश –
वृद्धिर्भवेत् तस्य, श्रोता च
फलमाप्नुयात्।।
सुदर्शन -महा -मन्त्रो , लभते
जय – मंगलम्।।
सर्व – दुःख- हरश्चेदं , अंग-
शूल-अक्ष -शूल- उदर- शूल-
गुद -शूल -कुक्षि- शूल- जानु-
शूल-जंघ -शूल -हस्त -शूल –
पाद-शूल – वायु-शूल – स्तन-
शूल- सर्व- शूलान् निर्मूलय ,
दानव – दैत्य- कामिनि वेताल –
ब्रह म्- राक्षस -कालाहल-
अनन्त – वासुकी- तक्षक-
कर्कोट – तक्षक- कालीय-
स्थल -रोग -जल- रोग- नाग-
पाश- काल- पाश- विषं निर्विषं
कृष्ण! त्वामहं शरणागतः।
वैष्णवार्थं कृतं यत्र
श्रीवल्लभ- निरुपितम्।। ॐ

14 January, 2021

ADITYA RIDAY - AGATYA MUNI RACHIT (PART OF VALMIKI RAMAYAN) - आदित्यह्रदय - अगस्त्यऋषि

 

 विनियोग

ॐ अस्य आदित्यह्रदय स्तोत्रस्य अगस्त्यऋषि: अनुष्टुप्छन्दः आदित्यह्रदयभूतो

भगवान् ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्माविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः

पूर्व पिठिता 

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्‌ । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्‌ ॥1॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्‌ । उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥2॥

राम राम महाबाहो श्रृणु गुह्मं सनातनम्‌ । येन सर्वानरीन्‌ वत्स समरे विजयिष्यसे ॥3॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्‌ । जयावहं जपं नित्यमक्षयं परमं शिवम्‌ ॥4॥

सर्वमंगलमागल्यं सर्वपापप्रणाशनम्‌ । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम्‌ ॥5॥

मूल -स्तोत्र 
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्‌ । पुजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्‌ ॥6॥

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: । एष देवासुरगणांल्लोकान्‌ पाति गभस्तिभि: ॥7॥

एष ब्रह्मा च विष्णुश्च शिव: स्कन्द: प्रजापति: । महेन्द्रो धनद: कालो यम: सोमो ह्यापां पतिः ॥8॥

पितरो वसव: साध्या अश्विनौ मरुतो मनु: । वायुर्वहिन: प्रजा प्राण ऋतुकर्ता प्रभाकर: ॥9॥

आदित्य: सविता सूर्य: खग: पूषा गभस्तिमान्‌ । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकर: ॥10॥

हरिदश्व: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान्‌ । तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान्‌ ॥11॥

हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: । अग्निगर्भोऽदिते: पुत्रः शंखः शिशिरनाशन: ॥12॥

व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥

आतपी मण्डली मृत्यु: पिगंल: सर्वतापन:। कविर्विश्वो महातेजा: रक्त:सर्वभवोद् भव: ॥14॥

नक्षत्रग्रहताराणामधिपो विश्वभावन: । तेजसामपि तेजस्वी द्वादशात्मन्‌ नमोऽस्तु ते ॥15॥

नम: पूर्वाय गिरये पश्चिमायाद्रये नम: । ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥16॥

जयाय जयभद्राय हर्यश्वाय नमो नम: । नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥17॥

नम उग्राय वीराय सारंगाय नमो नम: । नम: पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥

ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥19॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥20॥

तप्तचामीकराभाय हरये विश्वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥

नाशयत्येष वै भूतं तमेष सृजति प्रभु: । पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥22॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: । एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्‌ ॥23॥

देवाश्च क्रतवश्चैव क्रतुनां फलमेव च । यानि कृत्यानि लोकेषु सर्वेषु परमं प्रभु: ॥24॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन्‌ पुरुष: कश्चिन्नावसीदति राघव ॥25॥

पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम्‌ । एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥26॥

अस्मिन्‌ क्षणे महाबाहो रावणं त्वं जहिष्यसि । एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम्‌ ॥27॥

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्‌ तदा ॥ धारयामास सुप्रीतो राघव प्रयतात्मवान्‌ ॥28॥

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्‌ । त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान्‌ ॥29॥

रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागतम्‌ । सर्वयत्नेन महता वृतस्तस्य वधेऽभवत्‌ ॥30॥

अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: ।

निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥31॥

।।सम्पूर्ण ।

ADITYA KAVACHAM - SKANDPURAN - आदित्य कवचं - स्कान्द पुराण

ध्यानं
उदयाचल मागत्य वेदरूप मनामयं
तुष्टाव परया भक्त वालखिल्यादिभिर्वृतम् ।
देवासुरैः सदावन्द्यं ग्रहैश्चपरिवेष्टितं
ध्यायन् स्तवन् पठन् नाम यः सूर्य कवचं सदा ॥

कवचं
घृणिः पातु शिरोदेशं, सूर्यः फालं च पातु मे
आदित्यो लोचने पातु श्रुती पातः प्रभाकरः
घ्रूणं पातु सदा भानुः अर्क पातु तथा
जिह्वं पातु जगन्नाधः कण्ठं पातु विभावसु
स्कन्धौ ग्रहपतिः पातु, भुजौ पातु प्रभाकरः
अहस्करः पातु हस्तौ हृदयं पातु भानुमान्
मध्यं च पातु सप्ताश्वो, नाभिं पातु नभोमणिः
द्वादशात्मा कटिं पातु सविता पातु सक्थिनी
ऊरू पातु सुरश्रेष्टो, जानुनी पातु भास्करः
जङ्घे पातु च मार्ताण्डो गुल्फौ पातु त्विषाम्पतिः
पादौ ब्रद्नः सदा पातु, मित्रो पि सकलं वपुः
वेदत्रयात्मक स्वामिन् नारायण जगत्पते
आयतयामं तं कञ्चि द्वेद रूपः प्रभाकरः
स्तोत्रेणानेन सन्तुष्टो वालखिल्यादिभि र्वृतः
साक्षात् वेदमयो देवो रधारूढः समागतः
तं दृष्ट्या सहसोत्थाय दण्डवत्प्रणमन् भुवि
कृताञ्जलि पुटो भूत्वा सूर्या स्याग्रे स्तुवत्तदा
वेदमूर्तिः महाभागो ज्ञानदृष्टि र्विचार्य च
ब्रह्मणा स्थापितं पूर्वं यातायाम विवर्जितं
सत्त्व प्रधानं शुक्लाख्यं वेदरूप मनामयं
शब्दब्रह्ममयं वेदं सत्कर्म ब्रह्मवाचकं
मुनि मध्यापयामासप्रधमं सविता स्वयं
तेन प्रथम दत्तेन वेदेन परमेश्वरः
याज्ञवल्क्यो मुनिश्रेष्टः कृतकृत्यो भवत्तदा
ऋगादि सकलान् वेदान् ज्ञातवान् सूर्य सन्निधौ
इदं स्तोत्रं महापुण्यं पवित्रं पापनाशनं
यःपठेच्च्रुणुया द्वापि सर्वपाफैःप्रमुच्यते
वेदार्धज्ञान सम्पन्नः सूर्यलोक मवाप्नयात्

इति स्कान्द पुराणे गौरी खण्डे आदित्य कवचं सम्पूर्णम् । 

26 December, 2020

SOUNDRYA LAHARI STROTRAM - सौन्दर्य लहरी स्तोत्रं

 प्रथम भागः – आनन्द लहरि


भुमौस्खलित पादानाम् भूमिरेवा वलम्बनम् ।
त्वयी जाता पराधानाम् त्वमेव शरणम् शिवे ॥

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि।
अतस्त्वाम् आराध्यां हरि-हर-विरिन्चादिभि रपि
प्रणन्तुं स्तोतुं वा कथ-मक्र्त पुण्यः प्रभवति॥ 1 ॥

तनीयांसुं पांसुं तव चरण पङ्केरुह-भवं
विरिञ्चिः सञ्चिन्वन् विरचयति लोका-नविकलम् ।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरः सङ्क्षुद्-यैनं भजति भसितोद्धूल नविधिम्॥ 2 ॥

अविद्याना-मन्त-स्तिमिर-मिहिर द्वीपनगरी
जडानां चैतन्य-स्तबक मकरन्द श्रुतिझरी ।
दरिद्राणां चिन्तामणि गुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपु वराहस्य भवति॥ 3 ॥

त्वदन्यः पाणिभया-मभयवरदो दैवतगणः
त्वमेका नैवासि प्रकटित-वरभीत्यभिनया ।
भयात् त्रातुं दातुं फलमपि च वांछासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ 4 ॥

हरिस्त्वामारध्य प्रणत-जन-सौभाग्य-जननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभ मनयत् ।
स्मरो‌உपि त्वां नत्वा रतिनयन-लेह्येन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ 5 ॥

धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः
वसन्तः सामन्तो मलयमरु-दायोधन-रथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपां
अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ॥ 6 ॥

क्वणत्काञ्ची-दामा करि कलभ कुम्भ-स्तननता
परिक्षीणा मध्ये परिणत शरच्चन्द्र-वदना ।
धनुर्बाणान् पाशं सृ॒णिमपि दधाना करतलैः
पुरस्ता दास्तां नः पुरमथितु राहो-पुरुषिका ॥ 7 ॥

सुधासिन्धोर्मध्ये सुरविट-पिवाटी-परिवृते
मणिद्वीपे नीपो-पवनवति चिन्तामणि गृहे ।
शिवकारे मञ्चे परमशिव-पर्यङ्क निलयाम्
भजन्ति त्वां धन्याः कतिचन चिदानन्द-लहरीम् ॥ 8 ॥

महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वधिष्टाने हृदि मरुत-माकाश-मुपरि ।
मनो‌உपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहस्रारे पद्मे स हरहसि पत्या विहरसे ॥ 9 ॥

सुधाधारासारै-श्चरणयुगलान्त-र्विगलितैः
प्रपञ्चं सिन्ञ्न्ती पुनरपि रसाम्नाय-महसः।
अवाप्य स्वां भूमिं भुजगनिभ-मध्युष्ट-वलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ 10 ॥

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिपि
प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ।
चतुश्चत्वारिंशद्-वसुदल-कलाश्च्-त्रिवलय-
त्रिरेखभिः सार्धं तव शरणकोणाः परिणताः ॥ 11 ॥

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चि-प्रभृतयः ।
यदालोकौत्सुक्या-दमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिश-सायुज्य-पदवीम् ॥ 12 ॥

नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापाङ्गालोके पतित-मनुधावन्ति शतशः ।
गलद्वेणीबन्धाः कुचकलश-विस्त्रिस्त-सिचया
हटात् त्रुट्यत्काञ्यो विगलित-दुकूला युवतयः ॥ 13 ॥

क्षितौ षट्पञ्चाशद्-द्विसमधिक-पञ्चाश-दुदके
हुतशे द्वाषष्टि-श्चतुरधिक-पञ्चाश-दनिले ।
दिवि द्विः षट् त्रिंशन् मनसि च चतुःषष्टिरिति ये
मयूखा-स्तेषा-मप्युपरि तव पादाम्बुज-युगम् ॥ 14 ॥

शरज्ज्योत्स्ना शुद्धां शशियुत-जटाजूट-मकुटां
वर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक-कराम् ।
सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते
मधु-क्षीर-द्राक्षा-मधुरिम-धुरीणाः फणितयः ॥ 15 ॥

कवीन्द्राणां चेतः कमलवन-बालातप-रुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।
विरिञ्चि-प्रेयस्या-स्तरुणतर-श्रृङ्गर लहरी-
गभीराभि-र्वाग्भिः र्विदधति सतां रञ्जनममी ॥ 16 ॥

सवित्रीभि-र्वाचां चशि-मणि शिला-भङ्ग रुचिभि-
र्वशिन्यद्याभि-स्त्वां सह जननि सञ्चिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभि-
र्वचोभि-र्वाग्देवी-वदन-कमलामोद मधुरैः ॥ 17 ॥

तनुच्छायाभिस्ते तरुण-तरणि-श्रीसरणिभि-
र्दिवं सर्वा-मुर्वी-मरुणिमनि मग्नां स्मरति यः ।
भवन्त्यस्य त्रस्य-द्वनहरिण-शालीन-नयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाण-गणिकाः ॥ 18 ॥

मुखं बिन्दुं कृत्वा कुचयुगमध-स्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।
स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दु-स्तनयुगाम् ॥ 19 ॥

किरन्ती-मङ्गेभ्यः किरण-निकुरुम्बमृतरसं
हृदि त्वा माधत्ते हिमकरशिला-मूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्तधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ 20 ॥

तटिल्लेखा-तन्वीं तपन शशि वै॒श्वानर मयीं
निष्ण्णां षण्णामप्युपरि कमलानां तव कलाम् ।
महापद्मातव्यां मृदित-मलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लाद-लहरीम् ॥ 21 ॥

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां
इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्य-पदवीं
मुकुन्द-ब्रम्हेन्द्र स्फुट मकुट नीराजितपदाम् ॥ 22 ॥

त्वया हृत्वा वामं वपु-रपरितृप्तेन मनसा
शरीरार्धं शम्भो-रपरमपि शङ्के हृतमभूत् ।
यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिल-शशिचूडाल-मकुटम् ॥ 23 ॥

जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्व-न्नेतत् स्वमपि वपु-रीश-स्तिरयति ।
सदा पूर्वः सर्वं तदिद मनुगृह्णाति च शिव-
स्तवाज्ञा मलम्ब्य क्षणचलितयो र्भ्रूलतिकयोः ॥ 24 ॥

त्रयाणां देवानां त्रिगुण-जनितानां तव शिवे
भवेत् पूजा पूजा तव चरणयो-र्या विरचिता ।
तथा हि त्वत्पादोद्वहन-मणिपीठस्य निकटे
स्थिता ह्येते-शश्वन्मुकुलित करोत्तंस-मकुटाः ॥ 25 ॥

विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनम् ।
वितन्द्री माहेन्द्री-विततिरपि संमीलित-दृशा
महासंहारे‌உस्मिन् विहरति सति त्वत्पति रसौ ॥ 26 ॥

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्य-क्रमण-मशनाद्या हुति-विधिः ।
प्रणामः संवेशः सुखमखिल-मात्मार्पण-दृशा
सपर्या पर्याय-स्तव भवतु यन्मे विलसितम् ॥ 27 ॥

सुधामप्यास्वाद्य प्रति-भय-जरमृत्यु-हरिणीं
विपद्यन्ते विश्वे विधि-शतमखाद्या दिविषदः ।
करालं यत् क्ष्वेलं कबलितवतः कालकलना
न शम्भोस्तन्मूलं तव जननि ताटङ्क महिमा ॥ 28 ॥

किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः
कठोरे कोठीरे स्कलसि जहि जम्भारि-मकुटम् ।
प्रणम्रेष्वेतेषु प्रसभ-मुपयातस्य भवनं
भवस्यभ्युत्थाने तव परिजनोक्ति-र्विजयते ॥ 29 ॥

स्वदेहोद्भूताभि-र्घृणिभि-रणिमाद्याभि-रभितो
निषेव्ये नित्ये त्वा महमिति सदा भावयति यः ।
किमाश्चर्यं तस्य त्रिनयन-समृद्धिं तृणयतो
महासंवर्ताग्नि-र्विरचयति नीराजनविधिम् ॥ 30 ॥

चतुः-षष्टया तन्त्रैः सकल मतिसन्धाय भुवनं
स्थितस्तत्त्त-सिद्धि प्रसव परतन्त्रैः पशुपतिः ।
पुनस्त्व-न्निर्बन्धा दखिल-पुरुषार्थैक घटना-
स्वतन्त्रं ते तन्त्रं क्षितितल मवातीतर-दिदम् ॥ 31 ॥

शिवः शक्तिः कामः क्षिति-रथ रविः शीतकिरणः
स्मरो हंसः शक्र-स्तदनु च परा-मार-हरयः ।
अमी हृल्लेखाभि-स्तिसृभि-रवसानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ 32 ॥

स्मरं योनिं लक्ष्मीं त्रितय-मिद-मादौ तव मनो
र्निधायैके नित्ये निरवधि-महाभोग-रसिकाः ।
भजन्ति त्वां चिन्तामणि-गुणनिबद्धाक्ष-वलयाः
शिवाग्नौ जुह्वन्तः सुरभिघृत-धाराहुति-शतै ॥ 33 ॥

शरीरं त्वं शम्भोः शशि-मिहिर-वक्षोरुह-युगं
तवात्मानं मन्ये भगवति नवात्मान-मनघम् ।
अतः शेषः शेषीत्यय-मुभय-साधारणतया
स्थितः सम्बन्धो वां समरस-परानन्द-परयोः ॥ 34 ॥

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथि-रसि
त्वमाप-स्त्वं भूमि-स्त्वयि परिणतायां न हि परम् ।
त्वमेव स्वात्मानं परिण्मयितुं विश्व वपुषा
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ 35 ॥

तवाज्ञचक्रस्थं तपन-शशि कोटि-द्युतिधरं
परं शम्भु वन्दे परिमिलित-पार्श्वं परचिता ।
यमाराध्यन् भक्त्या रवि शशि शुचीना-मविषये
निरालोके ‌உलोके निवसति हि भालोक-भुवने ॥ 36 ॥

विशुद्धौ ते शुद्धस्फतिक विशदं व्योम-जनकं
शिवं सेवे देवीमपि शिवसमान-व्यवसिताम् ।
ययोः कान्त्या यान्त्याः शशिकिरण्-सारूप्यसरणे
विधूतान्त-र्ध्वान्ता विलसति चकोरीव जगती ॥ 37 ॥

समुन्मीलत् संवित्कमल-मकरन्दैक-रसिकं
भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।
यदालापा-दष्टादश-गुणित-विद्यापरिणतिः
यदादत्ते दोषाद् गुण-मखिल-मद्भ्यः पय इव ॥ 38 ॥

तव स्वाधिष्ठाने हुतवह-मधिष्ठाय निरतं
तमीडे संवर्तं जननि महतीं तां च समयाम् ।
यदालोके लोकान् दहति महसि क्रोध-कलिते
दयार्द्रा या दृष्टिः शिशिर-मुपचारं रचयति ॥ 39 ॥

तटित्वन्तं शक्त्या तिमिर-परिपन्थि-स्फुरणया
स्फुर-न्ना नरत्नाभरण-परिणद्धेन्द्र-धनुषम् ।
तव श्यामं मेघं कमपि मणिपूरैक-शरणं
निषेवे वर्षन्तं-हरमिहिर-तप्तं त्रिभुवनम् ॥ 40 ॥

तवाधारे मूले सह समयया लास्यपरया
नवात्मान मन्ये नवरस-महाताण्डव-नटम् ।
उभाभ्या मेताभ्या-मुदय-विधि मुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनक जननीमत् जगदिदम् ॥ 41 ॥

द्वितीय भागः – सौन्दर्य लहरी

गतै-र्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीतयति यः ॥
स नीडेयच्छाया-च्छुरण-शकलं चन्द्र-शकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ 42 ॥

धुनोतु ध्वान्तं न-स्तुलित-दलितेन्दीवर-वनं
घनस्निग्ध-श्लक्ष्णं चिकुर निकुरुम्बं तव शिवे ।
यदीयं सौरभ्यं सहज-मुपलब्धुं सुमनसो
वसन्त्यस्मिन् मन्ये बलमथन वाटी-विटपिनाम् ॥ 43 ॥

तनोतु क्षेमं न-स्तव वदनसौन्दर्यलहरी
परीवाहस्रोतः-सरणिरिव सीमन्तसरणिः।
वहन्ती- सिन्दूरं प्रबलकबरी-भार-तिमिर
द्विषां बृन्दै-र्वन्दीकृतमेव नवीनार्क केरणम् ॥ 44 ॥

अरालै स्वाभाव्या-दलिकलभ-सश्रीभि रलकैः
परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।
दरस्मेरे यस्मिन् दशनरुचि किञ्जल्क-रुचिरे
सुगन्धौ माद्यन्ति स्मरदहन चक्षु-र्मधुलिहः ॥ 45 ॥

ललाटं लावण्य द्युति विमल-माभाति तव यत्
द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।
विपर्यास-न्यासा दुभयमपि सम्भूय च मिथः
सुधालेपस्यूतिः परिणमति राका-हिमकरः ॥ 46 ॥

भ्रुवौ भुग्ने किञ्चिद्भुवन-भय-भङ्गव्यसनिनि
त्वदीये नेत्राभ्यां मधुकर-रुचिभ्यां धृतगुणम् ।
धनु र्मन्ये सव्येतरकर गृहीतं रतिपतेः
प्रकोष्टे मुष्टौ च स्थगयते निगूढान्तर-मुमे ॥ 47 ॥

अहः सूते सव्य तव नयन-मर्कात्मकतया
त्रियामां वामं ते सृजति रजनीनायकतया ।
तृतीया ते दृष्टि-र्दरदलित-हेमाम्बुज-रुचिः
समाधत्ते सन्ध्यां दिवसर्-निशयो-रन्तरचरीम् ॥ 48 ॥

विशाला कल्याणी स्फुतरुचि-रयोध्या कुवलयैः
कृपाधाराधारा किमपि मधुरा‌உ‌உभोगवतिका ।
अवन्ती दृष्टिस्ते बहुनगर-विस्तार-विजया
ध्रुवं तत्तन्नाम-व्यवहरण-योग्याविजयते ॥ 49 ॥

कवीनां सन्दर्भ-स्तबक-मकरन्दैक-रसिकं
कटाक्ष-व्याक्षेप-भ्रमरकलभौ कर्णयुगलम् ।
अमुञ्च्न्तौ दृष्ट्वा तव नवरसास्वाद-तरलौ
असूया-संसर्गा-दलिकनयनं किञ्चिदरुणम् ॥ 50 ॥

शिवे शङ्गारार्द्रा तदितरजने कुत्सनपरा
सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।
हराहिभ्यो भीता सरसिरुह सौभाग्य-जननी
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ 51 ॥

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तु-श्चित्तप्रशम-रस-विद्रावण फले ।
इमे नेत्रे गोत्राधरपति-कुलोत्तंस-कलिके
तवाकर्णाकृष्ट स्मरशर-विलासं कलयतः॥ 52 ॥

विभक्त-त्रैवर्ण्यं व्यतिकरित-लीलाञ्जनतया
विभाति त्वन्नेत्र त्रितय मिद-मीशानदयिते ।
पुनः स्रष्टुं देवान् द्रुहिण हरि-रुद्रानुपरतान्
रजः सत्वं वेभ्रत् तम इति गुणानां त्रयमिव ॥ 53 ॥

पवित्रीकर्तुं नः पशुपति-पराधीन-हृदये
दयामित्रै र्नेत्रै-ररुण-धवल-श्याम रुचिभिः ।
नदः शोणो गङ्गा तपनतनयेति ध्रुवमुम्
त्रयाणां तीर्थाना-मुपनयसि सम्भेद-मनघम् ॥ 54 ॥

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगति
तवेत्याहुः सन्तो धरणिधर-राजन्यतनये ।
त्वदुन्मेषाज्जातं जगदिद-मशेषं प्रलयतः
परेत्रातुं शंङ्के परिहृत-निमेषा-स्तव दृशः ॥ 55 ॥

तवापर्णे कर्णे जपनयन पैशुन्य चकिता
निलीयन्ते तोये नियत मनिमेषाः शफरिकाः ।
इयं च श्री-र्बद्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघतय्य प्रविशति॥ 56 ॥

दृशा द्राघीयस्या दरदलित नीलोत्पल रुचा
दवीयांसं दीनं स्नपा कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकर निपातो हिमकरः ॥ 57 ॥

अरालं ते पालीयुगल-मगराजन्यतनये
न केषा-माधत्ते कुसुमशर कोदण्ड-कुतुकम् ।
तिरश्चीनो यत्र श्रवणपथ-मुल्ल्ङ्य्य विलसन्
अपाङ्ग व्यासङ्गो दिशति शरसन्धान धिषणाम् ॥ 58 ॥

स्फुरद्गण्डाभोग-प्रतिफलित ताट्ङ्क युगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ।
यमारुह्य द्रुह्य त्यवनिरथ मर्केन्दुचरणं
महावीरो मारः प्रमथपतये सज्जितवते ॥ 59 ॥

सरस्वत्याः सूक्ती-रमृतलहरी कौशलहरीः
पिब्नत्याः शर्वाणि श्रवण-चुलुकाभ्या-मविरलम् ।
चमत्कारः-श्लाघाचलित-शिरसः कुण्डलगणो
झणत्करैस्तारैः प्रतिवचन-माचष्ट इव ते ॥ 60 ॥

असौ नासावंश-स्तुहिनगिरिवण्श-ध्वजपटि
त्वदीयो नेदीयः फलतु फल-मस्माकमुचितम् ।
वहत्यन्तर्मुक्ताः शिशिरकर-निश्वास-गलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ 61 ॥

प्रकृत्या‌உ‌உरक्ताया-स्तव सुदति दन्दच्छदरुचेः
प्रवक्ष्ये सदृश्यं जनयतु फलं विद्रुमलता ।
न बिम्बं तद्बिम्ब-प्रतिफलन-रागा-दरुणितं
तुलामध्रारोढुं कथमिव विलज्जेत कलया ॥ 62 ॥

स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणा-मासी-दतिरसतया चञ्चु-जडिमा ।
अतस्ते शीतांशो-रमृतलहरी माम्लरुचयः
पिबन्ती स्वच्छन्दं निशि निशि भृशं काञ्जि कधिया ॥ 63 ॥

अविश्रान्तं पत्युर्गुणगण कथाम्रेडनजपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।
यदग्रासीनायाः स्फटिकदृष-दच्छच्छविमयि
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ 64 ॥

रणे जित्वा दैत्या नपहृत-शिरस्त्रैः कवचिभिः
निवृत्तै-श्चण्डांश-त्रिपुरहर-निर्माल्य-विमुखैः ।
विशाखेन्द्रोपेन्द्रैः शशिविशद-कर्पूरशकला
विलीयन्ते मातस्तव वदनताम्बूल-कबलाः ॥ 65 ॥

विपञ्च्या गायन्ती विविध-मपदानं पशुपते-
स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।
तदीयै-र्माधुर्यै-रपलपित-तन्त्रीकलरवां
निजां वीणां वाणीं निचुलयति चोलेन निभृतम् ॥ 66 ॥

करग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरिशेनो-दस्तं मुहुरधरपानाकुलतया ।
करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते
कथङ्करं ब्रूम-स्तव चुबुकमोपम्यरहितम् ॥ 67 ॥

भुजाश्लेषान्नित्यं पुरदमयितुः कन्टकवती
तव ग्रीवा धत्ते मुखकमलनाल-श्रियमियम् ।
स्वतः श्वेता काला गरु बहुल-जम्बालमलिना
मृणालीलालित्यं वहति यदधो हारलतिका ॥ 68 ॥

गले रेखास्तिस्रो गति गमक गीतैक निपुणे
विवाह-व्यानद्ध-प्रगुणगुण-सङ्ख्या प्रतिभुवः ।
विराजन्ते नानाविध-मधुर-रागाकर-भुवां
त्रयाणां ग्रामाणां स्थिति-नियम-सीमान इव ते ॥ 69 ॥

मृणाली-मृद्वीनां तव भुजलतानां चतसृणां
चतुर्भिः सौन्द्रयं सरसिजभवः स्तौति वदनैः ।
नखेभ्यः सन्त्रस्यन् प्रथम-मथना दन्तकरिपोः
चतुर्णां शीर्षाणां सम-मभयहस्तार्पण-धिया ॥ 70 ॥

नखाना-मुद्योतै-र्नवनलिनरागं विहसतां
कराणां ते कान्तिं कथय कथयामः कथमुमे ।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीडल्लक्ष्मी-चरणतल-लाक्षारस-चणम् ॥ 71 ॥

समं देवि स्कन्द द्विपिवदन पीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्नुत-मुखम् ।
यदालोक्याशङ्काकुलित हृदयो हासजनकः
स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥ 72 ॥

अमू ते वक्षोजा-वमृतरस-माणिक्य कुतुपौ
न सन्देहस्पन्दो नगपति पताके मनसि नः ।
पिबन्तौ तौ यस्मा दविदित वधूसङ्ग रसिकौ
कुमारावद्यापि द्विरदवदन-क्रौञ्च्दलनौ ॥ 73 ॥

वहत्यम्ब स्त्म्बेरम-दनुज-कुम्भप्रकृतिभिः
समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।
कुचाभोगो बिम्बाधर-रुचिभि-रन्तः शबलितां
प्रताप-व्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ 74 ॥

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयः पारावारः परिवहति सारस्वतमिव ।
दयावत्या दत्तं द्रविडशिशु-रास्वाद्य तव यत्
कवीनां प्रौढाना मजनि कमनीयः कवयिता ॥ 75 ॥

हरक्रोध-ज्वालावलिभि-रवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसङो मनसिजः ।
समुत्तस्थौ तस्मा-दचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति ॥ 76 ॥

यदेतत्कालिन्दी-तनुतर-तरङ्गाकृति शिवे
कृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियाम् ।
विमर्दा-दन्योन्यं कुचकलशयो-रन्तरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ 77 ॥

स्थिरो गङ्गा वर्तः स्तनमुकुल-रोमावलि-लता
कलावालं कुण्डं कुसुमशर तेजो-हुतभुजः ।
रते-र्लीलागारं किमपि तव नाभिर्गिरिसुते
बेलद्वारं सिद्धे-र्गिरिशनयनानां विजयते ॥ 78 ॥

निसर्ग-क्षीणस्य स्तनतट-भरेण क्लमजुषो
नमन्मूर्ते र्नारीतिलक शनकै-स्त्रुट्यत इव ।
चिरं ते मध्यस्य त्रुटित तटिनी-तीर-तरुणा
समावस्था-स्थेम्नो भवतु कुशलं शैलतनये ॥ 79 ॥

कुचौ सद्यः स्विद्य-त्तटघटित-कूर्पासभिदुरौ
कषन्तौ-दौर्मूले कनककलशाभौ कलयता ।
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा
त्रिधा नद्ध्म् देवी त्रिवलि लवलीवल्लिभिरिव ॥ 80 ॥

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात्
नितम्बा-दाच्छिद्य त्वयि हरण रूपेण निदधे ।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितम्ब-प्राग्भारः स्थगयति सघुत्वं नयति च ॥ 81 ॥

करीन्द्राणां शुण्डान्-कनककदली-काण्डपटलीं
उभाभ्यामूरुभ्या-मुभयमपि निर्जित्य भवति ।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विधिज्ञे जानुभ्यां विबुध करिकुम्भ द्वयमसि ॥ 82 ॥

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषङ्गौ जङ्घे ते विषमविशिखो बाढ-मकृत ।
यदग्रे दृस्यन्ते दशशरफलाः पादयुगली
नखाग्रच्छन्मानः सुर मुकुट-शाणैक-निशिताः ॥ 83 ॥

श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शेरसि दयया देहि चरणौ ।
यय‌ओः पाद्यं पाथः पशुपति जटाजूट तटिनी
ययो-र्लाक्षा-लक्ष्मी-ररुण हरिचूडामणि रुचिः ॥ 84 ॥

नमो वाकं ब्रूमो नयन-रमणीयाय पदयोः
तवास्मै द्वन्द्वाय स्फुट-रुचि रसालक्तकवते ।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूना-मीशानः प्रमदवन-कङ्केलितरवे ॥ 85 ॥

मृषा कृत्वा गोत्रस्खलन-मथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते ।
चिरादन्तः शल्यं दहनकृत मुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलित मीशान रिपुणा ॥ 86 ॥

हिमानी हन्तव्यं हिमगिरिनिवासैक-चतुरौ
निशायां निद्राणं निशि-चरमभागे च विशदौ ।
वरं लक्ष्मीपात्रं श्रिय-मतिसृहन्तो समयिनां
सरोजं त्वत्पादौ जननि जयत-श्चित्रमिह किम् ॥ 87 ॥

पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिन-कमठी-कर्पर-तुलाम् ।
कथं वा बाहुभ्या-मुपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ 88 ॥

नखै-र्नाकस्त्रीणां करकमल-सङ्कोच-शशिभिः
तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ।
फलानि स्वःस्थेभ्यः किसलय-कराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिश-मह्नाय ददतौ ॥ 89 ॥

ददाने दीनेभ्यः श्रियमनिश-माशानुसदृशीं
अमन्दं सौन्दर्यं प्रकर-मकरन्दं विकिरति ।
तवास्मिन् मन्दार-स्तबक-सुभगे यातु चरणे
निमज्जन् मज्जीवः करणचरणः ष्ट्चरणताम् ॥ 90 ॥

पदन्यास-क्रीडा परिचय-मिवारब्धु-मनसः
स्खलन्तस्ते खेलं भवनकलहंसा न जहति ।
अतस्तेषां शिक्षां सुभगमणि-मञ्जीर-रणित-
च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ 91 ॥

गतास्ते मञ्चत्वं द्रुहिण हरि रुद्रेश्वर भृतः
शिवः स्वच्छ-च्छाया-घटित-कपट-प्रच्छदपटः ।
त्वदीयानां भासां प्रतिफलन रागारुणतया
शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ 92 ॥

अराला केशेषु प्रकृति सरला मन्दहसिते
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।
भृशं तन्वी मध्ये पृथु-रुरसिजारोह विषये
जगत्त्रतुं शम्भो-र्जयति करुणा काचिदरुणा ॥ 93 ॥

कलङ्कः कस्तूरी रजनिकर बिम्बं जलमयं
कलाभिः कर्पूरै-र्मरकतकरण्डं निबिडितम् ।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधि-र्भूयो भूयो निबिडयति नूनं तव कृते ॥ 94 ॥

पुरारन्ते-रन्तः पुरमसि तत-स्त्वचरणयोः
सपर्या-मर्यादा तरलकरणाना-मसुलभा ।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपान्तः स्थितिभि-रणिमाद्याभि-रमराः ॥ 95 ॥

कलत्रं वैधात्रं कतिकति भजन्ते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।
महादेवं हित्वा तव सति सतीना-मचरमे
कुचभ्या-मासङ्गः कुरवक-तरो-रप्यसुलभः ॥ 96 ॥

गिरामाहु-र्देवीं द्रुहिणगृहिणी-मागमविदो
हरेः पत्नीं पद्मां हरसहचरी-मद्रितनयाम् ।
तुरीया कापि त्वं दुरधिगम-निस्सीम-महिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ 97 ॥

कदा काले मातः कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरण-निर्णेजनजलम् ।
प्रकृत्या मूकानामपि च कविता0कारणतया
कदा धत्ते वाणीमुखकमल-ताम्बूल-रसताम् ॥ 98 ॥

सरस्वत्या लक्ष्म्या विधि हरि सपत्नो विहरते
रतेः पतिव्रत्यं शिथिलपति रम्येण वपुषा ।
चिरं जीवन्नेव क्षपित-पशुपाश-व्यतिकरः
परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥ 99 ॥

प्रदीप ज्वालाभि-र्दिवसकर-नीराजनविधिः
सुधासूते-श्चन्द्रोपल-जललवै-रघ्यरचना ।
स्वकीयैरम्भोभिः सलिल-निधि-सौहित्यकरणं
त्वदीयाभि-र्वाग्भि-स्तव जननि वाचां स्तुतिरियम् ॥ 100 ॥

सौन्दयलहरि मुख्यस्तोत्रं संवार्तदायकम् ।
भगवद्पाद सन्क्लुप्तं पठेन् मुक्तौ भवेन्नरः ॥
सौन्दर्यलहरि स्तोत्रं सम्पूर्णं

VISHNU SAHASTRA NAMAVALI - श्रीविष्णुसहस्र स्तोत्र

 श्रीविष्णुसहस्रनामस्तोत्रम् 

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।नरोत्तमम् देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥जयमुदीरयेत् ॐ अथ सकलसौभाग्यदायक श्रीविष्णुसहस्रनामस्तोत्रम् ।श्रीविष्णुसहस्रनामस्तोत्रम् शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तयेध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥ यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।शतम् विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २॥ व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।पौत्रमकल्मषम् पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥तपोनिधिम् ३॥ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४॥ अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५॥ यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।जन्मसंसारबन्धनात् विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६॥ ॐ नमो विष्णवे प्रभविष्णवे ।

 श्रीवैशम्पायन उवाच — श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७॥ युधिष्ठिर उवाच — किमेकं दैवतं लोके किं वाप्येकं परायणम् ।परायणम् स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥शुभम् ८॥ 1 श्रीविष्णुसहस्रनामस्तोत्रम् को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥जन्तुर्जन्मसंसारबन्धनात् ९॥ 

भीष्म उवाच — जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।पुरुषोत्तमम् स्तुवन् नामसहस्रेण स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ १०॥ तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।पुरुषमव्ययम् ध्यायन् स्तुवन्ध्यायन् स्तुवन् नमस्यंश्चस्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११॥ अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।सर्वलोकमहेश्वरम् लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥भवेत् १२॥ ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।कीर्तिवर्धनम् लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥सर्वभूतभवोद्भवम् १३॥ एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १४॥ परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्म परमं यः परायणम् ॥परायणम् १५॥ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।मङ्गलम् दैवतं दैवतानां च भूतानां योऽव्ययः पिता ॥ १६॥ यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ १७॥ तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रं मे श‍ृणु पापभयापहम् ॥पापभयापहम् १८॥ यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९॥ ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ॥ छन्दोऽनुष्टुप् तथा छन्दोऽनुष्टुप् देवो भगवान् देवकीसुतःभगवान्देवकीसुतः ॥ २०॥ अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः । त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥ २१॥ 2  श्रीविष्णुसहस्रनामस्तोत्रम् विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥महेश्वरम् अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं ॥ २२ ॥ पूर्वन्यासः । 

श्रीवेदव्यास उवाच — ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य । श्री वेदव्यासो भगवान् ऋषिः भगवान् । अनुष्टुप् छन्दः अनुष्टुप् । श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता । अमृतांशूद्भवो भानुरिति बीजम् ।बीजम् देवकीनन्दनः स्रष्टेति शक्तिः । उद्भवः क्षोभणो देव इति परमो मन्त्रः । शङ्खभृन्नन्दकी चक्रीति कीलकम् ।कीलकम् शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।इत्यस्त्रम् रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ।नेत्रम् त्रिसामा सामगः सामेति कवचम् ।कवचम् आनन्दं परब्रह्मेति योनिः । ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥ श्रीविश्वरूप इति ध्यानम् ।ध्यानम् श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥ 

अथ न्यासः । ॐ शिरसि वेदव्यासऋषये नमः । मुखे अनुष्टुप्छन्दसे नमः । हृदि श्रीकृष्णपरमात्मदेवतायै नमः । गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः । पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः । सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः । करसम्पूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ॥ इति ऋषयादिन्यासः ॥ 

अथ करन्यासः । ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः ।  श्रीविष्णुसहस्रनामस्तोत्रम् अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः । ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः । सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः । निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः । रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । अथ षडङ्गन्यासः । ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः । अमृतांशूद्भवो भानुरिति शिरसे स्वाहा । ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् । सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् ।हुम् निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् । रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् । इति षडङ्गन्यासः ॥ श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं करिष्ये इति सङ्कल्पः । अथ ध्यानम् ।ध्यानम् 

क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः । शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ १॥ भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः । अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥ २॥ ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।शुभाङ्गम् लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं var योगिहृद्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥सर्वलोकैकनाथम् ३॥ मेघश्यामं पीतकौशेयवासं  श्रीविष्णुसहस्रनामस्तोत्रम् श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।कौस्तुभोद्भासिताङ्गम् पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥सर्वलोकैकनाथम् ४॥ नमः समस्तभूतानामादिभूताय भूभृते । अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ ५॥ सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् ।सरसीरुहेक्षणम् सहारवक्षःस्थलकौस्तुभश्रियं स्थलशोभिकौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम् ॥चतुर्भुजम् ६॥ छायायां पारिजातस्य हेमसिंहासनोपरि आसीनमम्बुदश्याममायताक्षमलंकृतम् ।आसीनमम्बुदश्याममायताक्षमलंकृतम् चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ७॥ 

स्तोत्रम् ।स्तोत्रम् हरिः ॐ । 

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥ पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥ योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान् केशवःश्रीमान्केशवः पुरुषोत्तमः ॥ ३॥ सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४॥ स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५॥ अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥ श्रीविष्णुसहस्रनामस्तोत्रम् अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥परम् ७॥ ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८॥ ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥कृतिरात्मवान् ९॥ सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १०॥ अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११॥ वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२॥ रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३॥ सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः वेदवित् ॥ १४॥ लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५॥ भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६॥ उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७॥ वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८॥ महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९॥ महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २०॥  श्रीविष्णुसहस्रनामस्तोत्रम् मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१॥ अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः सन्धिमान् । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२॥ गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ २३॥ अग्रणीर्ग्रामणीः श्रीमान् न्यायो श्रीमान् नेता समीरणः । सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥सहस्रपात् २४॥ आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ॥ २५॥ सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ २६॥ असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ २७॥ वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८॥ सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९॥ ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३०॥ अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ३१॥ भूतभव्यभवन्नाथः पवनः पावनोऽनलः । कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२॥ युगादिकृद्युगावर्तो नैकमायो महाशनः । अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥सहस्रजिदनन्तजित् ३३॥ इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । 

श्रीविष्णुसहस्रनामस्तोत्रम् क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४॥ अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५॥ स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६॥ अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७॥ पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।शरीरभृत् महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८॥ अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः लक्ष्मीवान् ॥ ३९॥ विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । महीधरो महाभागो वेगवानमिताशनः ॥ ४०॥ उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१॥ व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः । परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ४२॥ रामो विरामो विरजो मार्गो नेयो नयोऽनयः ।  विरामो विरतो वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३॥ वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४॥ ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५॥ विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।बीजमव्ययम् अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६॥ अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७॥ श्रीविष्णुसहस्रनामस्तोत्रम् यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ज्ञानमुत्तमम् ४८॥ सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।सुहृत् मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९॥ स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।नैककर्मकृत् वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५०॥ धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।सदसत्क्षरमक्षरम् अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१॥ गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः । आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२॥ उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३॥ सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः । विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः ॥ ५४॥ विनियोज्यः जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः । अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५॥ अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६॥ महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्यक्षो महाश‍ृङ्गः कृतान्तकृत् ॥कृतान्तकृत् ५७॥ महावराहो गोविन्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८॥ वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९॥ भगवान् भगहाऽऽनन्दी भगवान् वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६०॥ सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१॥  दिविस्पृक्  श्रीविष्णुसहस्रनामस्तोत्रम् त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥परायणम् ६२॥ शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३॥ अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४॥ श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ६५॥ स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६॥ उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७॥ अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८॥ कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९॥ कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७०॥ ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१॥ महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२॥ स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३॥ मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४॥ सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५॥  श्रीविष्णुसहस्रनामस्तोत्रम् भूतावासो वासुदेवः सर्वासुनिलयोऽनलः । दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ७६॥ विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७॥ एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् यत् तत्पदमनुत्तमम् ।तत्पदमनुत्तमम् लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८॥ सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९॥ अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८०॥ तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः । प्रग्रहो निग्रहो व्यग्रो नैकश‍ृङ्गो गदाग्रजः ॥ ८१॥ चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥चतुर्भावश्चतुर्वेदविदेकपात् ८२॥ समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३॥ शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४॥ उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनः श‍ृङ्गी जयन्तः सर्वविज्जयी ॥ ८५॥ सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६॥ कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७॥ सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८॥ सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । 

श्रीविष्णुसहस्रनामस्तोत्रम् अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९॥ अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।महान् अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९०॥ भारभृत् कथितो भारभृत् योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१॥ धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२॥ सत्त्ववान् सात्त्विकः सत्त्ववान् सत्यः सत्यधर्मपरायणः । अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः प्रियकृत् प्रीतिवर्धनः ॥ ९३॥ विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४॥ अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५॥ सनात्सनातनतमः कपिलः कपिरव्ययः । स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६॥ अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७॥ अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८॥ उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९॥ अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १००॥ अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१॥ आधारनिलयोऽधाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२॥ श्रीविष्णुसहस्रनामस्तोत्रम् प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३॥ भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥ यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः यज्ञभुग् । यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥ आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६॥ शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७॥ सर्वप्रहरणायुध ॐ नम इति । 

वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी । श्रीमान् नारायणो श्रीमान् विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८॥ श्री वासुदेवोऽभिरक्षतु ॐ नम इति । उत्तरन्यासः । भीष्म उवाच — इतीदं कीर्तनीयस्य केशवस्य महात्मनः । नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥प्रकीर्तितम् १॥ य इदं श‍ृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।परिकीर्तयेत् नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ २॥ वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।भवेत् वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥सुखमवाप्नुयात् ३॥ धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।चार्थमाप्नुयात् कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥प्राप्नुयात्प्रजाम् ४॥ भक्तिमान् यःभक्तिमान् सदोत्थाय शुचिस्तद्गतमानसः । सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥नाम्नामेतत्प्रकीर्तयेत् ५॥ यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च । अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥प्राप्नोत्यनुत्तमम् ६॥ श्रीविष्णुसहस्रनामस्तोत्रम् न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति । भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ ७॥ रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।बन्धनात् भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८॥ दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।पुरुषोत्तमम् स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ९॥ वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः । सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥सनातनम् १०॥ न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।क्वचित् जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११॥ इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः । युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२॥ न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ १३॥ द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४॥ ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।सयक्षोरगराक्षसम् जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥सचराचरम् १५॥ इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६॥ सर्वागमानामाचारः प्रथमं परिकल्प्यते ।  कल्पते आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७॥ ऋषयः पितरो देवा महाभूतानि धातवः । जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥जगन्नारायणोद्भवम् १८॥ योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादि कर्म च । वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥जनार्दनात् १९॥ एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः । त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २०॥ श्रीविष्णुसहस्रनामस्तोत्रम् इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।कीर्तितम् पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१॥ विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।प्रभुमव्ययम् भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥पराभवम् २२॥ न ते यान्ति पराभवम् ॐपराभवम् नम इति । 

अर्जुन उवाच — पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम । भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ २३॥ 

श्रीभगवानुवाच — यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव । सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४॥ स्तुत एव न संशय ॐ नम इति । 

व्यास उवाच — वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।भुवनत्रयम् सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ २५॥ श्री वासुदेव नमोऽस्तुत ॐ नम इति । पार्वत्युवाच — केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।विष्णोर्नामसहस्रकम् पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६॥

 ईश्वर उवाच — श्रीराम राम रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ २७॥ श्रीरामनाम वरानन ॐ नम इति । ब्रह्मोवाच — नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥ २८॥  श्रीविष्णुसहस्रनामस्तोत्रम् सहस्रकोटियुगधारिणे ॐ नम इति । ॐ तत्सदिति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यामानुशासनिके पर्वणि भीष्मयुधिष्ठिरसंवादे श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम् ॥श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम् सञ्जय उवाच — यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९॥ 

श्रीभगवानुवाच — अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥वहाम्यहम् ३०॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ३१॥ आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः । सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ३२॥  भवन्तु कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।स्वभावात् प्रकृतिस्वभावात् । करोमि यद्यत् सकलं यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३॥ इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ।सम्पूर्णम् ॐ तत् सत्तत् ।सत् महाभारते अनुशासनपर्वणि 

 ॐ आपदामपहर्तारं दातारं सर्वसम्पदाम् ।सर्वसम्पदाम् लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥नमाम्यहम् आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम् ।भीतिनाशनम् द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥नमाम्यहम् नमः कोदण्डहस्ताय सन्धीकृतशराय च । खण्डिताखिलदैत्याय रामायऽऽपन्निवारिणे ॥ रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ श्रीविष्णुसहस्रनामस्तोत्रम् अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ । आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ॥ सन्नद्धः कवची खड्गी चापबाणधरो युवा । गच्छन् ममाग्रतो गच्छन् नित्यं रामः पातु सलक्ष्मणः ॥ अच्युतानन्तगोविन्द नामोच्चारणभेषजात् ।नामोच्चारणभेषजात् नश्यन्ति सकला रोगास्सत्यं सत्यं वदाम्यहम् ॥वदाम्यहम् सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते । वेदाच्छास्त्रं परं नास्ति न देवं केशवात्परम् ॥केशवात्परम् शरीरे जर्झरीभूते व्याधिग्रस्ते कळेवरे । औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥ आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः ॥ यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् ।यद्भवेत् तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ॥ विसर्गबिन्दुमात्राणि पदपादाक्षराणि च । न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥ नमः कमलनाभाय नमस्ते जलशायिने । नमस्ते केशवानन्त वासुदेव नमोऽस्तुते ॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ आकाशात्पतितं तोयं यथा गच्छति सागरम् ।सागरम् सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥ एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिः । कुपथं तं विजानीयाद् गोविन्दरहितागमम् ॥गोविन्दरहितागमम् सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।यत्फलम् तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम् ॥जनार्दनम् 

श्रीविष्णुसहस्रनामस्तोत्रम् यो नरः पठते नित्यं त्रिकालं केशवालये । द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति ॥ दह्यन्ते रिपवस्तस्य सौम्याः सर्वे सदा ग्रहाः । विलीयन्ते च पापानि स्तवे ह्यस्मिन् प्रकीर्तिते ह्यस्मिन् प्रकीर्तिते ॥ येने ध्यातः श्रुतो येन येनायं पठ्यते स्तवः । दत्तानि सर्वदानानि सुराः सर्वे समर्चिताः ॥ इह लोके परे वापि न भयं विद्यते क्वचित् ।क्वचित् नाम्नां सहस्रं योऽधीते द्वादश्यां मम सन्निधौ ॥ शनैर्दहन्ति पापानि कल्पकोटीशतानि च । अश्वत्थसन्निधौ पार्थ ध्यात्वा मनसि केशवम् ॥केशवम् पठेन्नामसहस्रं तु गवां कोटिफलं लभेत् ।लभेत् शिवालये पठेनित्यं तुलसीवनसंस्थितः ॥ नरो मुक्तिमवाप्नोति चक्रपाणेर्वचो यथा । ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति ॥ विलयं यान्ति पापानि चान्यपापस्य का कथा । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ॥ हरिः ॐ तत्सत् ॥