05 December, 2020

PRAGNAVIVARDHAN STOTRA (FOR ENHACEMENT OF KNOWLEDGE AND IQ LEVEL) - श्री प्रज्ञा विवर्धन कार्तिकेय स्तोत्र

 ।।श्रीस्कंद उवाच।।

 
योगीश्र्वरो महासेनः
कार्तिकेयोग्निनंदनः।
स्कंदः कुमारः सेनानीः
स्वामी शंकरसंभवः।।01।।
 
गांगेयस्ताम्रचूडश्र्च
ब्रह्मचारी शिखिध्वजः।
तारकारिरुमापुत्रः
क्रौंचारातिः षडाननः।।02।।

शब्द ब्रह्मस्वरूपश्र्च
सिद्धः सारस्वतो गुरुः।
सनत्कुमारो भगवान्
भोगमोक्षप्रदः प्रभुः।।03।।
 
शरजन्मा गणाधीशो
पूर्वजो मुक्तिमार्गकृत्।
सर्वागमप्रणेता च
वांछितार्थप्रदर्शनः।।04।।
 
अष्टाविंशति नामानी
मदीयानि च यः पठेत।
प्रत्यूषे श्रद्धया कीयुकतो
मूको वाचस्पतिर्भवेत्।।05।।
 
महामंत्रमयानीती
मम नामानि कीर्तयेत्।
महाप्रज्ञामवाप्नोति
नात्र कार्या विचारणा।।06।।

No comments:

Post a Comment